|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.272. अध्यायः 272
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिराय निखिलधर्मोपदेशानन्तरं स्वावसानकालाऽऽसत्त्यवगमेन भगवद्ध्यानाय वाक्प्रसारणादुपरते भीष्मे तंप्रति व्यासेन युधिष्ठिरस्थ नगरगमनाभ्यनुज्ञानचोदना॥ 1 ॥ युधिष्ठिरेण भीष्माश्यनुज्ञया सहकृष्णादिभिर्हास्तिनपुरप्रवेशनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
जनमेजय उवाच।
शरतल्पगते भीष्मे कौरवाणां धुरन्धरे।
शयाने वीरशयने पाण्डवैः समुपस्थिते॥ 13-272-1(92263)
युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः।
धर्माणामागमं श्रुत्वा विदित्वा सर्वसंशयान्॥ 13-272-2(92264)
दानानां च विधिं श्रुत्वा च्छिन्नधर्मार्थसंशयः।
यदन्यदकरोद्विप्र तन्मे शंसितुमर्हसि॥ 13-272-3(92265)
वैशम्पायन उवाच। 13-272-4x(7722)
अभून्मुहूर्तं स्तिमितं सर्वं तद्राजमण्डलम्।
तूष्णींभूते ततस्तस्मिन्पटे चित्रमिवार्पितम्॥ 13-272-4(92266)
मुहूर्तमिव च ध्यात्वा व्यासःक सत्यवतीसुतः।
नृपं शयानं गाङ्गेयमिदमाह वचस्त्वरन्॥ 13-272-5(92267)
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः।
सहितो भ्रातृभिः सर्वैः पार्तिवैश्चानुयायिभिः॥ 13-272-6(92268)
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता।
तमिमं पुरयानाय समनुज्ञातुमर्हसि॥ 13-272-7(92269)
एवमुक्तो भगवता व्यासेन पृथिवीपतिः।
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः॥ 13-272-8(92270)
उवाच चैनं मधुरं नृपं शान्तनवो नृपः।
प्रविशस्व पुरीं राजन्धर्मे च ध्रियतां मनः॥ 13-272-9(92271)
यजस्व विविधैर्यजैर्बह्वन्नैः स्वाप्तदक्षिणैः।
ययातिरिव राजेन्द्र श्रकद्धादमपुरःसरः॥ 13-272-10(92272)
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय।
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः॥ 13-272-11(92273)
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय।
सुहृदः फलसत्कारैरर्चयस्व यथार्हतः॥ 13-272-12(92274)
अनुं त्वां तात जीवन्तु मित्राणि सुहृकदस्तथा।
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः॥ 13-272-13(92275)
आगन्तव्यं च भवता समये मम पार्थिव।
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे॥ 13-272-14(92276)
तथेत्युक्त्वा च कौन्तेयः सोभिवाद्य पितामहम्।
प्रययौ सपरीवारो नगरं नागसाह्वयम्॥ 13-272-15(92277)
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्।
सह तैर्ऋषिभिः सर्वैर्भ्रातृभिः केशवेन च॥ 13-272-16(92278)
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिव।
प्रविवेश कुरुश्रेष्ठः पुरं वारणसाह्वयम्॥ ॥ 13-272-17(92279)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विसप्तत्यधिकद्विशततमोऽध्यायः॥ 272 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-272-7 तमिमं पुनरागन्तुमिति थ.पाठः॥
अथ भीषस्वर्गारोहणपर्व ॥ 2 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|